(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

आश्रमवासिकपर्व - अध्याय 041


आश्रमवासिकपर्व - अध्याय 007
॥ श्रीः ॥
16.7. अध्यायः 007
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण युधिष्ठिरंप्रति राजनीतिकथनम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text

धृतराष्ट्र उवाच।

मण्डलानि च बुध्येथाः परेषामात्मनस्तथा।
उदासीनगुणानां च मध्यस्थानां च भारत॥ 16-7-1(97429)
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम्।
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन॥ 16-7-2(97430)
अथ नानाजनपदा दुर्गाणि विविधानि च।
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम्॥ 16-7-3(97431)
ते च द्वादश कौन्तेय राजानो विविधात्मकाः।
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो॥ 16-7-4(97432)
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः।
अत्र षाड्गुण्यमाचत्तं युधिष्ठिर निबोध तत्॥ 16-7-5(97433)
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम।
द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः॥ 16-7-6(97434)
यथा स्वपक्षो बलवान्परपक्षस्तथा बलः।
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा॥ 16-7-7(97435)
यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः।
सार्धं विद्वांस्तदा क्षीणः परैः सन्धिं मसाश्रयेत्॥ 16-7-8(97436)
द्रव्याणां सञ्चयश्चैव कर्तव्यः सुमहांस्तथा।
यदा समर्था यानाय नचिरेणैव भारत॥ 16-7-9(97437)
तदा सर्वं विधेयं स्यात्स्थानेन च विचारयेत्।
भूमिरल्पफला देया विपरीतस्य भारत॥ 16-7-10(97438)
हिरण्यरूप्यभूयिष्ठं मित्रं क्षीणमकोशभृत्।
विपरीतं निगृह्णीयात्स्वयं सन्धिविशारदः॥ 16-7-11(97439)
सन्ध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ।
विपरीतं न तच्छ्रेयः पुत्र कस्यांचिदापदि॥ 16-7-12(97440)
तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित्।
प्रकृतीनां च राजेन्द्र राजा दीनान्विभावयेत्॥ 16-7-13(97441)
क्रमेणि युगपद्बुध्वा व्यसनानां बलाबलम्।
पीडनं स्तंभनं चैव कोशभङ्गस्तथैव च॥ 16-7-14(97442)
कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम्।
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता॥ 16-7-15(97443)
कौन्तेय तद्धितं ते स्यात्पृथिवीं विजिगीषतः।
गुणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः॥ 16-7-16(97444)
साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा।
आत्मसात्करणे नित्यं पालनानि गृहे तथा।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा॥ 16-7-17(97445)
तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः।
यद्येनमभियायाच्च बलवान्दुर्बल नृपः। 16-7-18(97446)
सामादिभिरुपायैस्तं क्रमेणि विनिवर्तयेः।
अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः॥ 16-7-19(97447)
कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः।
असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत्।
क्रमेणानेन मोक्षः स्याच्छरीरं प्रति केवलम्॥ ॥ 16-7-20(97448)

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तमोऽध्यायः॥ 7 ॥

Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-7-1 मण्डलानि अरिर्मित्रमित्यादीनि॥ 7-7-3 यथेच्छकं परैर्भेद्यत्वमभेद्यत्वं च भवति तस्मादवहितस्तिष्ठेत्। तथामात्या जनपदा इति झ.पाठः। भवत्येषां स्वकं परमिति थ.पाठः॥ 7-7-4 द्वादश चत्वारः शत्रुजाताः। षट् आततायिनः। मित्रं अमित्रमित्रं चेति षष्टिर्गुणाः। कृष्यादीन्यष्टौ संधानकर्माणि। बालादयो विंशतिरसंधेया। नास्तिक्यादयश्चतुर्दश दोषाः। मन्त्रादीन्यष्टादश तीर्थानीति। एतेषु केचित् हानार्थं ज्ञातव्याः केचिदुपादानार्थम्॥ 7-7-5 ततः षाङ्गुण्यचारिण इति क.थ.पाठः॥ 7-7-6 द्रव्याणां सञ्चये चैव यत्नः कार्यः सदा भवेत् इति क.पाठः॥ 7-7-9 दीनान् अन्धवधिरादीन् विभावयेत्पूजयेत्॥ 7-7-13 एनं त्वाम्


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.